Tuesday 31 December 2019

ಸರಲ ಭಾಷಾ ಸಂಸ್ಕೃತಮ್ sarala bhasha samskrutam सरल भाषा संस्कृतं SARALA BHASHA SAMSKRUTAM






sarala bhasha samskrutam

संस्कृत-गीतम्
(Saras Bhasha Sanskritam)
विश्वभाषा संस्कृतम्
१. सरलभाषा संस्कृतं सरसभाषा संस्कृतम् ।
सरस-सरल-मनोज्ञ-मङ्गल-देवभाषा संस्कृतम् ॥
२. मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् ।
मृदुल-मधुर-मनोह-रामृत-तुल्यभाषा संस्कृतम् ॥(अमृत)तुल्यभाषा संस्कृतम् ॥
३. देवभाषा संस्कृतं वेदभाषा संस्कृतम् ।
भेद-भाव-विनाशकं खलु, दिव्यभाषा संस्कृतम् ॥
X
४. अमृतभाषा संस्कृतम्, अतुलभाषा संस्कृतम् ।
सुकृति-जन-हृदि परिलसितशुभवरदभाषा संस्कृतम् ॥
५. भुवनभाषा संस्कृतं, भवनभाषा संस्कृतम् ।
भरत-भुवि परि-लसित, काव्य-मनोज्ञ-भाषा संस्कृतम् ॥
६. शस्त्रभाषा संस्कृतं,  शास्त्रभाषा संस्कृतम् ।
शस्त्र-शास्त्र-भृदार्ष-भारत-,राष्ट्रभाषा संस्कृतम् ॥
७. धर्मभाषा संस्कृतं, कर्मभाषा संस्कृतम् ।

धर्म-कर्म-प्रचोदकं खलु, विश्वभाषा संस्कृतम् ॥
***********

No comments:

Post a Comment