Showing posts with label ಗಣಪತಿ ಸೂಕ್ತಮ್ गणपतिसूक्त ऋग्वेदीय. Show all posts
Showing posts with label ಗಣಪತಿ ಸೂಕ್ತಮ್ गणपतिसूक्त ऋग्वेदीय. Show all posts

Friday, 20 December 2019

ಗಣಪತಿ ಸೂಕ್ತಮ್ ganapati suktam गणपतिसूक्त ऋग्वेदीय

ऋग्वेदीय गणपतिसूक्त 

आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ ८.०८१.०१
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ ८.०८१.०२
न॒हि त्वा᳚ शूर दे॒वा न मर्ता॑सो॒ दित्स᳚न्तम् ।
भी॒मं न गां वा॒रय᳚न्ते ॥ ८.०८१.०३
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राज᳚म् ।
न राध॑सा मर्धिषन्नः ॥ ८.०८१.०४
प्रस्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भि राध॑सा जुगुरत् ॥ ८.०८१.०५
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ॥ ८.०८१.०६
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ ८.०८१.०७
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सु तं स॑नुहि ॥ ८.०८१.०८
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚ वि॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज॑रन्ते ॥ ८.०८१.०९

ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ श‍ृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१

निषुसी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ १०.११२.०९
अ॒भि॒ख्या नो᳚ मघव॒न्नाध॑माना॒न्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ १०.११२.१०

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
*********