Showing posts with label ನಷ್ಟ ದ್ರವ್ಯ ಪ್ರಾಪ್ತಿ ಸೂಕ್ತಮ್ नष्ट द्रव्य प्राप्ति सूक्तम्. Show all posts
Showing posts with label ನಷ್ಟ ದ್ರವ್ಯ ಪ್ರಾಪ್ತಿ ಸೂಕ್ತಮ್ नष्ट द्रव्य प्राप्ति सूक्तम्. Show all posts

Friday, 20 December 2019

ನಷ್ಟ ದ್ರವ್ಯ ಪ್ರಾಪ್ತಿ ಸೂಕ್ತಮ್ नष्ट द्रव्य प्राप्ति सूक्तम्

॥ नष्ट द्रव्य प्राप्ति सूक्तम् ॥

सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति ।
य ए॒वेदमिति॒ ब्रव॑त् ॥ ६.०५४.०१
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति ।
इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥ ६.०५४.०२
पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते ।
नो अ॑स्य व्यथते प॒विः ॥ ६.०५४.०३
यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते ।
प्र॒थ॒मो वि॑न्दते॒ वसु॑ ॥ ६.०५४.०४
पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः ।
पू॒षा वाजं॑ सनोतु नः ॥ ६.०५४.०५
पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः ।
अ॒स्माकं॑ स्तुव॒तामु॒त ॥ ६.०५४.०६
माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे ।
अथारि॑ष्टाभि॒रा ग॑हि ॥ ६.०५४.०७
श‍ृ॒ण्वन्तं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसम् ।
ईशा॑नं रा॒य ई॑महे ॥ ६.०५४.०८
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न ।
स्तो॒तार॑स्त इ॒ह स्म॑सि ॥ ६.०५४.०९
परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम् ।
पुन॑र्नो न॒ष्टमाज॑तु ॥ ६.०५४.१०
**********