Showing posts with label ಧ್ರುವ ಸೂಕ್ತಮ್ ध्रुव सूक्तम्. Show all posts
Showing posts with label ಧ್ರುವ ಸೂಕ್ತಮ್ ध्रुव सूक्तम्. Show all posts

Friday, 20 December 2019

ಧ್ರುವ ಸೂಕ್ತಮ್ dhruva suktam ध्रुव सूक्तम्

॥ ध्रुवसूक्तम् ॥

आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥ १०.१७३.०१
इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः ।
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥ १०.१७३.०२
इ॒ममिन्द्रो॑ अदीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।
तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥ १०.१७३.०३
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इ॒मे ।
ध्रु॒वं विश्व॑मि॒दं जग॑द् ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥ १०.१७३.०४
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।
ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥ १०.१७३.०५
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि ।
अथो॑ त॒ इन्द्रः॒ केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥ १०.१७३.०६

अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते ।
तेना॒स्मान्ब्र॑ह्मणस्पतेऽ॒भि रा॒ष्ट्राय॑ वर्तय ॥ १०.१७४.०१
अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥ १०.१७४.०२
अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् ।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥ १०.१७४.०३
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद् द्यु॒म्न्युत्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥ १०.१७४.०४
अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः ।
यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥ १०.१७४.०५


Rigveda Mandala 10, sUkta 173-174
Ashtaka 8, Adhyaya 8, 31-32
***********