ಶ್ರೀಗಂಗಾಷ್ಟಕಮ್
ಓಂ
ಭಗವತಿ ತವ ತೀರೇ ನೀರಮಾತ್ರಾಶನೋಽಹಂ
ವಿಗತವಿಷಯತೃಷ್ಣಃ ಕೃಷ್ಣಮಾರಾಧಯಾಮಿ ।
ಸಕಲಕಲುಷಭಂಗೇ ಸ್ವರ್ಗಸೋಪಾನಗಂಗೇ
ತರಲತರತರಂಗೇ ದೇವಿ ಗಂಗೇ ಪ್ರಸೀದ ॥ 1॥
ಭಗವತಿ ಭವಲೀಲಾಮೌಲಿಮಾಲೇ ತವಾಂಭಃ
ಕಣಮಣುಪರಿಮಾಣಂ ಪ್ರಾಣಿನೋ ಯೇ ಸ್ಪೃಶನ್ತಿ ।
ಅಮರನಗರನಾರಿಚಾಮರಮರಗ್ರಾಹಿಣೀನಾಂ
ವಿಗತಕಲಿಕಲಂಕಾತಂಕಮಂಕೇ ಲುಠನ್ತಿ ॥ 2॥
ಬ್ರಹ್ಮಾಂಡಂ ಖಂಡಯನ್ತೀ ಹರಶಿರಸಿ ಜಟಾವಲ್ಲಿಮುಲ್ಲಾಸಯನ್ತೀ
ಖರ್ಲ್ಲೋಕಾತ್ ಆಪತನ್ತೀ ಕನಕಗಿರಿಗುಹಾಗಂಡಶೈಲಾತ್ ಸ್ಖಲನ್ತೀ ।
ಕ್ಷೋಣೀ ಪೃಷ್ಠೇ ಲುಠನ್ತೀ ದುರಿತಚಯಚಮೂನಿಂರ್ಭರಂ ಭರ್ತ್ಸಯನ್ತೀ
ಪಾಥೋಧಿಂ ಪುರಯನ್ತೀ ಸುರನಗರಸರಿತ್ ಪಾವನೀ ನಃ ಪುನಾತು ॥ 3॥
ಮಜ್ಜನಮಾತಂಗಕುಂಭಚ್ಯುತಮದಮದಿರಾಮೋದಮತ್ತಾಲಿಜಾಲಂ
ಸ್ನಾನಂಃ ಸಿದ್ಧಾಂಗನಾನಾಂ ಕುಚಯುಗವಿಗಲತ್ ಕುಂಕುಮಾಸಂಗಪಿಂಗಮ್ ।
ಸಾಯಂಪ್ರಾತರ್ಮುನೀನಾಂ ಕುಶಕುಸುಮಚಯೈಃ ಛನ್ನತೀರಸ್ಥನೀರಂ
ಪಾಯ ನ್ನೋ ಗಾಂಗಮಂಭಃ ಕರಿಕಲಭಕರಾಕ್ರಾನ್ತರಂ ಹಸ್ತರಂಗಮ್ ॥ 4॥
ಆದಾವಾದಿ ಪಿತಾಮಹಸ್ಯ ನಿಯಮವ್ಯಾಪಾರಪಾತ್ರೇ ಜಲಂ
ಪಶ್ಚಾತ್ ಪನ್ನಗಶಾಯಿನೋ ಭಗವತಃ ಪಾದೋದಕಂ ಪಾವನಮ್ ।
ಭೂಯಃ ಶಂಭುಜಟಾವಿಭೂಷಣಮಣಿಃ ಜಹನೋರ್ಮಹರ್ಷೇರಿಯಂ
ಕನ್ಯಾ ಕಲ್ಮಷನಾಶಿನೀ ಭಗವತೀ ಭಾಗೀರಥೀ ದೃಶ್ಯತೇ ॥ 5॥
ಶೈಲೇನ್ದ್ರಾತ್ ಅವತಾರಿಣೀ ನಿಜಜಲೇ ಮಜ್ಜತ್ ಜನೋತ್ತಾರಿಣೀ
ಪಾರಾವಾರವಿಹಾರಿಣೀ ಭವಭಯಶ್ರೇಣೀ ಸಮುತ್ಸಾರಿಣೀ ।
ಶೇಷಾಹೇರನುಕಾರಿಣೀ ಹರಶಿರೋವಲ್ಲಿದಲಾಕಾರಿಣೀ
ಕಾಶೀಪ್ರಾನ್ತವಿಹಾರಿಣೀ ವಿಜಯತೇ ಗಂಗಾ ಮನೂಹಾರಿಣೋ ॥ 6॥
ಕುತೋ ವೀಚಿರ್ವೀಚಿಸ್ತವ ಯದಿ ಗತಾ ಲೋಚನಪಥಂ
ತ್ವಮಾಪೀತಾ ಪೀತಾಂಬರಪುಗ್ನಿವಾಸಂ ವಿತರಸಿ ।
ತ್ವದುತ್ಸಂಗೇ ಗಂಗೇ ಪತತಿ ಯದಿ ಕಾಯಸ್ತನುಭೃತಾಂ
ತದಾ ಮಾತಃ ಶಾತಕ್ರತವಪದಲಾಭೋಽಪ್ಯತಿಲಘುಃ ॥ 7॥
ಗಂಗೇ ತ್ರೈಲೋಕ್ಯಸಾರೇ ಸಕಲಸುರವಧೂಧೌತವಿಸ್ತೀರ್ಣತೋಯೇ
ಪೂರ್ಣಬ್ರಹ್ಮಸ್ವರೂಪೇ ಹರಿಚರಣರಜೋಹಾರಿಣಿ ಸ್ವರ್ಗಮಾರ್ಗೇ ।
ಪ್ರಾಯಶ್ಚಿತಂ ಯದಿ ಸ್ಯಾತ್ ತವ ಜಲಕಾಣಿಕ್ರಾ ಬ್ರಹ್ಮಹತ್ಯಾದಿಪಾಪೇ
ಕಸ್ತ್ವಾಂ ಸ್ತೋತುಂ ಸಮರ್ಥಃ ತ್ರಿಜಗದಘಹರೇ ದೇವಿ ಗಂಗೇ ಪ್ರಸೀದ ॥ 8॥
ಮಾತರ್ಜಾಹ್ನವೀ ಶಂಭುಸಂಗವಲಿತೇ ಮೌಲೈ ನಿಧಾಯಾಂಜಲಿಂ
ತ್ವತ್ತೀರೇ ವಪುಷೋಽವಸಾನಸಮಯೇ ನಾರಾಯಣಾಂಧ್ರಿದ್ವಯಮ್ ।
ಸಾನನ್ದಂ ಸ್ಮರತೋ ಭವಿಷ್ಯತಿ ಮಮ ಪ್ರಾಣಪ್ರಯಾಣೋತ್ಸವೇ
ಭೂಯಾತ್ ಭಕ್ತಿರವಿಚ್ಯುತಾ ಹರಿಹರದ್ವೈತಾತ್ಮಿಕಾ ಶಾಶ್ವತೀ ॥ 9॥
ಗಂಗಾಷ್ಟಕಮಿದಂ ಪುಣ್ಯಂ ಯಃ ಪಠೇತ್ ಪ್ರಯತೋ ನರಃ ।
ಸರ್ವಪಾಪವಿನಿರ್ಭುಕ್ತೋ ವಿಷ್ಣುಲೋಕಂ ಸ ಗಚ್ಛತಿ ॥ 10॥
ಇತಿ
ಶ್ರೀಮತ್ಪರಮಹಂಸಪರಿವ್ರಾಜಕಾಚಾರ್ಯ ಶ್ರೀಗೋವಿನ್ದಭಗವತ್ಪೂಜ್ಯಪಾದಸ್ಯಶಿಷ್ಯಾ
ಶ್ರೀಮಚ್ಛಂಕರಭಗವತಃ ಕೃತೌ ಗಂಗಾಷ್ಟಕಸ್ತೋತ್ರಂ ಸಮ್ಪೂರ್ಣಮ್ ।
*************
श्री गंगाष्टकम्
ॐ
भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभंगे स्वर्गसोपानगंगे
तरलतरतरंगे देवि गंगे प्रसीद ॥ १॥
भगवति भवलीलामौलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।
अमरनगरनारिचामरमरग्राहिणीनां
विगतकलिकलंकातंकमंके लुठन्ति ॥ २॥
ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
खर्ल्लोकात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती ।
क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भर्त्सयन्ती
पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥ ३॥
मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् ।
सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं
पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् ॥ ४॥
आदावादि पितामहस्य नियमव्यापारपात्रे जलं
पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ५॥
शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणी समुत्सारिणी ।
शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी
काशीप्रान्तविहारिणी विजयते गंगा मनूहारिणो ॥ ६॥
कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुग्निवासं वितरसि ।
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥ ७॥
गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे ।
प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे
कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद ॥ ८॥
मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ॥ ९॥
गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः ।
सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ॥ १०॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगोविन्दभगवत्पूज्यपादस्यशिष्या
श्रीमच्छङ्करभगवतः कृतौ गङ्गाष्टकस्तोत्रं सम्पूर्णम् ।
**********

No comments:
Post a Comment